पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचं वाणीं दर्शयन्तं प्रकटयन्तं बुबाणमित्यर्थः । एनं प्रसिद्धं विक्रमाङ्क विक्रमाङ्कदेवं व्यजिज्ञपत् निवेदितवान् । भाषा विक्रमाङ्कदेव के बोलने के अनन्तर भय से रहित उस सज्जन चोलराजदूत ने अमृत के प्रवाह के ऐसी तथा चन्द्रमा के किरणों के ऐसी मीठी और निर्मल उपर्युक्त बातें बोलने वाले विक्रमाङ्कदेव से कहा । किं तवान्यदुचितं वदान्यता यत्समादिशति तत्त्वया कृतम् । प्रार्थितार्थपरिपन्थितामगात् कश्चुलुक्यकुलपार्थिवोऽर्थिनाम् ॥५५॥ अन्वयः तव अन्यत् उचितै किम् । चढ़ान्यता यत् समादिशति तत् त्वया कृतम् । कः चुलुक्यकुलपार्थिवः अर्थिनां प्रार्थितार्थपरिपन्थिताम् अगात् । व्याख्या तव भवतो विक्रमाङ्कदेवस्याऽन्यदितरदुचितं योग्यं किम् । अर्थात् भवता सर्वमुचितमेवाऽनुष्ठितम् । वदान्यतोदारता ‘स्युर्वदान्यस्थूललक्ष्यदानशौंडा बहुप्रदे इत्यमरः । तावकीनेति भावः । यत्समादिशति यदाज्ञापयति तत्त्वया भवता कृतं विहितम् । सर्वथैव हृदयस्य विशालतैव भवता प्रदर्शितेति भावः । कश्चुलुक्यकुलस्य चालुक्यवंशस्य पार्थिवो नृपोऽथिनां याचकानां प्रार्थितोऽभिवा ञ्छितोऽर्थः प्रयोजनं तस्य परिपन्थितां प्रतिकूलतामगात् गतवान् न कोऽपीत्यर्थः । चालुक्यकुलोत्पन्नानां राज्ञां याचकमनोरथपूरणं स्वाभाविकमिति भावः । अत्रा थपत्यलङ्कारः ।