पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्य भूरिगुणरतशालिनः स्नेहपूतहृदयस्य वाञ्छितम् । पारयामि न विधातुमन्यथा यत्स्थितं मनसि तद्विधीयताम् ॥५३॥ अन्वयः भूरिगुणरत्रशालिनः स्नेहपूतहृदयस्य तस्य वाञ्छितम् अन्यथा विधातुं न पारयामि । यत् मनसि स्थितं तत् विधीयताम् । गुणाः सौजन्यादिगुणा एव रत्नानि गुणरत्नानि भूरीणि बहूनि गुणरत्नानि भूरिगुणरत्नानि तैश्शालते शोभते बहुगुणरत्नशोभितस्य स्नेहेन प्रेम्णा स तस्य पूतं पवित्रं हृदयं मनो यस्य तस्य प्रेमपावनीकृतविशुद्धमनसस्तस्य द्राविडेन्द्रस्य वाञ्छितमभीष्ट कन्यादानादिकमन्यथा वैपरीत्येन विधातं कत न पारयामि न शक्नोमि । यदभीप्सितं मनसि स्वान्ते ‘चिन्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । स्थितं विद्यमानं तद्विधीयतां क्रियताम् । मनसैवाऽनुमोदयामि तव प्रस्तावमिति भावः । भाषा अनेक गुणरत्नों से सुशोभित, प्रेम से पवित्र हृदय वाले द्राविडदेश के राजा की अभीप्सित कन्यादान की बात को न मानने में मैं असमर्थ हूँ। जो उसके मन में हो, वह करे । दर्शयन्तममृतद्रवोपमां वाचमिन्दुकरनिर्मलामिति । विक्रमाङ्कमपयातसाध्वसः साधुरेनमथ स व्यजिज्ञपत् ।॥५४॥