पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सज्जनाः दोषजातम् अवधीर्य मानसे गुणम् एव धारयन्ति । वारिदाः वारिधेः क्षारभावम् अपनीय सलिलम् एव गृण्हते । सज्जनाः सत्पुरुषा दोषाणां निन्द्यवस्तूनां जातं समूहं दोषजातं दुर्गुणकुल मित्यर्थः । अवधीर्य परित्यज्याऽवहेलनं विधायेति भावः । मानसे हृदय ‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । गणमेव धारयन्ति समादरेण गृह्णन्ति । वारिदा मेधा वारिधेः समुद्रस्य क्षारभावं लवणत्वमपनीय दूरीकृत्य सलिलमेव शुद्धं माधुर्यवज्जलमेव गृह्णते समाददति । दृष्टान्तालङ्कारः। सज्जनलोग दोषों को छोड़ कर मन में गुण को ही धारण करते हैं। मेघ, समुद्र के खारेपन को छोड़ कर विशुद्ध मधुर जल ही ग्रहण करते हैं। = दिग्जयव्यसनिना पुनः पुनस्तस्य किं प्रियमनुष्ठितं मया । रज्यते मयि दृढं तथाप्यसौ वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥ भाषा पुनः पुनः दिग्जयव्यसनिना भया तस्य किं प्रियम् अनुष्ठितम् । तथापि असौ मयि दृढं रज्यते । कः उन्नतात्मनां चरितं वेति । = पुनः पुनर्भूयो भूयो दिशां जयो दिग्जयस्तस्य व्यसनमस्याऽस्तीति दिग्जय व्यसनी तेन सर्वदिग्वर्तमाननृपमण्डलपराजयदुर्ललितचेतसा मया विक्रमाङ्कदेवेन = अन्वयः --

=

छन्-

= ==========*****