पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदि मे पतिम् अवञ्चकं वेत्सि, अत्र ते मनः च स्वच्छतां स्पृशति तत् निवृत्य तुङ्गभद्रया मुद्रिते उपान्तवत्र्मनि पदं कुरु । (हे राजन् ! ) यदि त्वं मे मम पति स्वामिनं द्राविडेश्वरमवञ्चकं निष्क पटहृदयं स्वच्छान्तःकरणमित्यर्थः वेत्सि जानासि । अत्राऽस्मिन्विषये ते तव मनश्च चेतश्च स्वच्छतां नैर्मल्यं स्पृशत्यालिङ्गति तत्तर्हि निवृत्याऽस्मात्स्थानात्प रावृत्य तुङ्गभद्रया तन्नामनद्या मुद्रिते चिन्हित उपान्ते वत्र्म तस्मिन् सीमान्तप्रदेशे पदं स्थिति स्वनिवासमित्यर्थः । कुरु विधेहि । भाषा यदि आप मेरे स्वामी द्राविडेश्वर को निष्कपट समझते हैं और इस सम्बन्ध में आप का मन यदि सन्देह रहित है तो आप यहाँ से लौट कर तुङ्गभद्रा नदी से चिन्हित सीमान्तप्रदेश में अपना डेरा डालिये । कैश्चिदेव सततप्रयाणकैस्तत्र शुद्धहृदयः करिष्यति । स त्वया परिचयं प्रतापिना पर्वणीन्दुरिव तिग्मरश्मिना ॥५७॥ अन्वयः तत्र शुद्वहृदयः सः काश्चत् एव सततप्रयाणकः प्रतापना त्वया पवारण इन्दुः तिग्मरश्मिना इव परिचयं करिष्यति । व्याख्या तत्र तुङ्गभद्रासीमान्तप्रदेशे शुद्धं निष्कपटं हृदयं मनो यस्य स निर्मलमानसः