सः शशिमुखी कीदृशी भवेत् इति चिन्तया हृदये स्पृश्यते स्म । नित्यकुण्डलितकार्मुकः स्मरः कामुकेषु मिषमात्रम् ईक्षते । व्याख्या स विक्रमाङ्कदेवः शशिमुखी चन्द्रमुखी द्रविडदेशराजकुमारी कीदृशी किंस्वरूपा भवेदिति चिन्तया विचारेण हृदये मनसि ‘चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानस मनः ' इत्यमरः । स्पृश्यते स्म चिन्तितो बभूव । नित्यं सदैव कुण्डलितं समाकृष्टं कार्मुकं धनुर्थेन स सततसज्जधनुः स्मरः कामदेवः कामुकेषु कामिषु कान्ताम्प्रत्यनुरागसम्भृतेष्वित्यर्थः । मिषमात्रं व्याजमात्रमीक्षते पश्यति । चिन्तोत्पादनव्याजेनैत्र कामबाणव्यापार: सफल इति भावः । अत्राऽर्थान्तरन्यासोऽलङ्कारः । भाषा वह विक्रमाङ्कदेव, द्रविड देश के राजा की चन्द्रवदनी कन्या कैसी होगी इस विचार से चिन्तित हो उठा । कामियों के प्रति सदा धनुष सज्ज रखने । वाला कामदेव, कामियों को पीड़ित करने में कोई बहाना ही खोजता रहता है। श्रब्रवीच मनसः प्रसन्नतां दन्तकान्तिभिरुदीरयन्निव । श्रोष्ठपृष्ठलुठितस्मिताश्चलः कुन्तलीनयनपूर्णचन्द्रमाः ॥४९॥ अन्वयः ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः(सः) दन्तकान्तिभिः मनसः प्रसन्नताम् उदीरयन् इव अब्रवीत् च ।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२७
दिखावट