पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आहवे त्वदसिः उत्प्रतापदहनं मुखं वहन् इन्द्रजालिकः (भवति) यत् लूनमत्यशिरसां द्विषां दिव्यमस्तकसमागमं करोति । व्याख्या आहवे युद्धे तत्र असिस्त्वदसिर्भवदीयखड्ग उद्गत ऊध्र्वं प्रसारितः प्रताप एव दहनोऽग्निर्यस्मात्तदुत्प्रतापदहनं मुखमाननमग्रभागञ्च वहन् धारयन्निन्द्रजालिक इन्द्रजालविद्याप्रवीणो मायावी भवति । यद्यस्मात्कारणात् स लूनं छिन्न मत्र्य मरणशीललं विनाशीत्यर्थः । शिरो येषां ते लनमत्र्यशिरसस्तेषां छिरुविना शिमस्तकानां दिव्यानां स्वगयाणां मस्तकानां शिरसां सगागमं प्रापणणं करोति । यथा कश्चिदिन्द्रजालिको मखादग्निनिस्सरणं प्रदर्शयन चमत्कारयक्तानि कार्याणि करोति तथैव तव खङ्ग ऊध्र्वप्रसारितप्रतापरूपदहनयुक्तं मुखं धारयन् लूनशिरसां शत्रूणां रणे मरणात्तेषां स्वर्गप्राप्तिनिश्चितेति हेतोस्तेषां नूतनदिव्यमस्तकान् संदधाति । अत्रोत्तरार्धगतवाक्यार्थस्येन्द्रजालिकत्वे हेतुतया कथनात्काव्य लिङ्गमलङ्कारः । भाषा युद्ध में, ऊपर उठने वाले तेज रूपी अग्नि से युवत मुख या नोक वाली तुम्हारी तलवार, इन्द्र जालिक हो जाती है । क्यों कि कटे हुए मानवी मस्तक वाले शत्रुओं को वह दिव्य मस्तकों से युक्त कर देती है । अर्थात् युद्ध में जो वीर मरते हैं वे स्वर्ग में जाते हैं। यह प्रसिद्धि है । इसलिये तुम्हारी तलवार इन्द्रजालिक के समान सिर काटे शत्रुओं को काल्पनिक दिव्य मस्तकों से युक्त कर स्वर्ग में भेज देती है । भाण्यभूमिमपि भारतादिषु त्वादृशं न शृणुमः प्रतापिनम् । दर्शनेन विजयश्रियं रणेष्वन्यसङ्गविमुखीं करोति यः ॥४२॥