पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथवा समस्तवसुधातलेश्वरः त्वं निजया भुवा किं करोषि । यत्र भूधरे केसरी वसति तत्र असौ मृगराजतां याति । अथवेति पक्षान्तरे । समस्तस्य समग्रस्य वसुधातलस्य भूतलस्येश्वरः प्रभुस्त्वं निजया स्वकीयया भुवा पृथिव्या राज्येनेत्यर्थः । किं करोषि किंम्प्रयोजनं धारयसि । न किमपीत्यर्थः । यत्र यस्मिन्भूधरे पर्वते केसरी सिंहो ‘सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः । वसति गच्छति तत्र तस्मिन् स्थानेऽसौ सिंहो मृगराजतां मृगराजपदवीं याति प्राप्नोति । अथवा सम्पूर्ण पृथ्वी के स्वामी, तुमको अपनी पृथ्वी की अर्थात् राज्य की क्या परवाह है । शेर जिस पर्वत पर जा बैठता है वहीं वह मृगराजपद को प्राप्त कर लेता है । भाषा याति पुण्यफलपात्रतामसौ यां भुवं निवससे महाभट । सा कुपार्थिवकदर्थेनोज्झिता त्वां पतिं हि लभते गुणोज्ज्वलम् ॥३९॥ अन्वयः हे महाभट ! (त्वं) यां भुवं निवससे असौ पुण्यफलपात्रतां याति हि, सा कुपार्थिवकद्र्थनोज्झिता (या) गुणोज्ज्वलं त्वां पतिं लभते । हे महाभट ! हे महावीर ! व्याख्या त्वं यां भुवं पृथिवीं निवससे स्थिति