पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामथ्र्यहीनम् । अम्बुधिस्समुद्री युगान्तसमय विना प्रलयकालागमनं विना जगता भुवनस्य विष्टपं भुवनं जगत्' इत्यमरः । प्लावनाय निमज्जनाय नो प्रगल्भते न प्रभुः । अत्र प्रतिवस्तूपमालङ्कारः । ‘सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिरिति' लक्षणात् । भाषा क्षत्रिय जाति, तुम्हारे ऐसे विजय की इच्छा रखने वाले के विना असाध्य कार्य की सिद्धि करने में समर्थ नहीं हो सकती । समुद्र प्रलय काल के बिना जगत् को पानी के अन्दर डुबाने में समर्थ नहीं होता । अग्रजे तृणवदर्पितं निजं राज्यमूर्जितगुणेन यत्त्वया। वज्रलेपघटितेव तेन ते निश्चला जगति कीर्तिचन्द्रिका ।॥३७॥ अन्वयः यत् ऊर्जितगुणेन त्वया निजं राज्यं तृणवत् अग्रजे अर्पितम् । तेन ते कीर्तिचन्द्रिका जगति वज्रलेपघटिता इव निश्चला (जाता ।) व्याख्या यद्यस्मात्कारणादूजिताः श्रेष्ठा गुणा दयादाक्षिण्यादयो यस्य स तेन प्रशस्य गुणेन त्वया निजं स्वकीयं राज्यमग्रजे ज्येष्ठभ्रातरि सोमदेवे तृणवत्तृणेन तुल्यं लोभरहितमित्यर्थः । अर्पितं निवेदितं तेन कारणेन ते तव कीर्तिरेव चन्द्रिका कीर्तिज्योत्स्ना वज्रलेपेन कुलिशालेपेन चिरकालस्थायिना लेपद्रव्येण निश्चला ऽचला स्थिरेत्यर्थः । जाता । भाषा