पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कोमल चरणों को रखने वाली सरस्वती को प्रकट किया या स्मित पूर्वक कोमल पत्तों के सदृश कोमल अर्थात् मधुर वाक्यों को कहा । कश्चुलुक्यनृपवंशमण्डन त्वदुणान्गणयितुं प्रगल्भते । धाम पङ्करुहिणीविलासिनः कस्य सङ्कलयितुं विदग्धता ॥३१॥ हे चुलुक्यनृपवंशमण्डन कः त्वद्गुणान् गणयितुं प्रगल्भते । पङ्क रुहिणीविलासिनः धाम सङ्कलयितुं कस्य प्रगल्भता । चुलुक्यनृपवंशस्य चालुक्यराजकुलस्य मण्डनं भूषणं तत्सम्बुद्धौ, हे चुलुक्यनूप वंशमण्डन ! हे विक्रमाङ्कदेव ! कः पुरुषस्तव गुणास्त्वद्गुणास्तान् दयादा क्षिण्यादीन् गणयितुं संख्यातुं प्रगल्भते क्षमते । न कोऽपीत्यर्थः । पङ्करुहिणीनां कमलिनीनां विलासी सुखदायकस्सूर्यस्तस्य धाम तेजः किरणानित्यर्थः । संकलयितुं गणयितं कस्य जनस्य विदधता पाण्डित्यं सामथ्र्यमित्यर्थः । न कस्यापीतिभाव । प्रतिवस्तूपमाऽलङ्कारः । “प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः । एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ' इति लक्षणात् । हे चालुक्यराजकुल के भूषण ! विक्रमाङ्कदेव ! तुम्हारे दयादाक्षिण्यादि गुणों की गणना करने में कौन समर्थ हो सकता है अर्थात् कोई भी समर्थ नहीं हो सकता । कमलिनी को सुख देने वाले सूर्य की किरणों को गिनने की