पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या त्वदीये त्वत्सम्बन्धिनि करवाले खङ्ग वर्तत इति त्वदीयकरवालवतं तस्य भवदीयखड्गे स्फुटतया प्रतीयमानस्याऽम्भसो जलस्य विमलत्वं विशदत्वं धावल्यमित्यर्थः । किं वर्णयामि केन प्रकारेण निरूपयामि । यस्मादम्भसः प्रभव उत्पत्तिर्यस्य तत् यत्प्रभवं यदुत्पन्न, विश्वं सम्पूर्णब्रह्माण्डमेव शुक्तिपुटं तस्य मौक्तिकमेव यशः कीर्तिरिन्दोरियमित्यैन्दवी तामिन्दुसम्बन्धिनीं द्युतिं कान्तिमेति प्राप्नोति । त्वत्करवालप्रभावेण विश्वस्मिस्ते चन्द्रवच्छुभ्रं यशः प्रसृतमिति भावः । शुभ्रत्वाद्यशसि मौक्तिकाभेदारोपाढूपकम् । अस्मिन्विश्वस्मिन् शुक्ति पुटत्वारोपः कारणमत परम्परितरूपकम् । ‘नियतारोपणोपायस्स्यादारोपः परस्य यः । तत्परम्परितमिति' लक्षणात् । भाषा आपकी तलवार के (धार के) पानी की स्वच्छता का क्या वर्णन करें । जिससे उत्पन्न विश्वरूपी सीप का मौक्तिक रूपी यश चन्द्रमा की कान्ति को प्राप्त करता है अर्थात् आपकी तलवार से उत्पन्न चन्द्रमा के समान शुभ्र यश सम्पूर्ण विश्व में फैल गया है । खङ्गवारि भवतः किमुच्यते लोलशैवलमिवांरिकुन्तलैः । यत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः ॥३३॥ अन्वयः श्ररिकुन्तलैः लोलशैवलम् इव भवतः खङ्गवारि किम् उच्यते । यत्र त्वया निवेशिततं राजहंसनिवहोपमं यशः राजति । दार