व्याख्या
ततो राजकुमारस्य द्राविडराजभूमिसन्मुखागमनानन्तरं नयस्य राजनीतेर्मार्ग पन्थास्तस्य नीतिज्ञ इत्यर्थः कोविदो ज्ञाता । द्राविडेन्द्रस्य द्रविडदेशनृपस्य चोलदेशाधिपवीरराजेन्द्रस्य पुरुषो दूतस्सन्देशाहारक इत्यर्थः । प्रतिक्रिया प्रतीका रस्तया शून्यं रहितं पौरुषं पराक्रमस्तस्य विशेषोऽतिशयस्तेन शालते शोभते तस्याऽजेयपराक्रमातिशयजुषः सज्जं शरप्रक्षेपणाय पूर्णतयोद्युक्तं धनुः कोदण्डं यस्य स तस्य सज्जधनुषस्तस्य विक्रमाङ्कदेवस्य सभां संसदमाजगाम प्रविवेश ।
भाषा
बाद में नीतिशास्त्रपारङ्गत द्रविडदेश के राजा का दूत अजेय पौरुषविशेष से शोभित तथा युद्ध के लिये सदैव धनुष को तयार रखने वाले विक्रमाङ्कदेव की सभा में आया ।
|
मौलिचुम्बितवसुन्धरातलः कुन्तलेन्द्रतनयं प्रणम्य सः । |
अन्वयः
मौलिचुम्बितवसुन्धरातलः सः कुन्तलेन्द्रतनयं प्रणम्य दशनांशुपल वन्यस्तकोमलपदां सरस्वतीं व्याजहार ।
व्याख्या
मौलिना शिरसा चुम्बितं समालिङ्गितं वसुन्धरातलं पृथिवीतलं येन स दूतः कुन्तलेन्द्रस्याऽऽहवभल्लदेवस्य तनयं पुत्रं विक्रमाङ्कदेवं प्रणम्य नमस्कृत्य दशनानां वन्तानामंशावः किरणा एव पल्लवाः किसलयानि “पल्लवोऽस्त्री किसलयम्'
व्याख्या