सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः

  असौ अविरतं व्यापृतैः शिलीमुखैः पूर्वकल्पितं केरलक्षितिपवाम

चक्षुषां गण्डपालिषु अश्रुणः निवासम् अदर्शयत् ।

व्याख्या

 असौ विक्रमाङ्कदेवोऽविरतं निरन्तरं ‘सततेऽनारता श्रान्तसन्तताविरता

निशम्' इत्यमरः । व्यापृतैस्संचालितैः शिली शल्यं मुखे येषां ते शिलीमुखा बाणास्तैः पूर्व दिग्विजयकाल एव कल्पितं विहितं केरलदेशस्य ट्रावंकोरप्रान्तस्य क्षितिपो नृपस्तस्य वामचक्षुषां वामलोचनानां ‘कामिनी वामलोचना' इत्यमरः । गण्डपालिषु कपोलस्थलेषु अश्रुणो बाष्पस्य निवासं स्थितिमदर्शयत्प्रकटयाञ्चकार । विक्रमाङ्कदेववैभवं दृष्ट्वा स्मृतपूर्ववृत्तान्ताः केरलदेशमहिष्यः बाष्पाम्बूनि मुञ्चन्त्यो भृशमदूयन्तेति भावः । अत्र भूतार्थस्य प्रत्यक्षायमाणत्वोक्त्या भाविक नामालङ्कारः । “अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः । यत्प्रत्यक्षाय माणत्वं तद्भाविकमुदाहृतम्' इति लक्षणात् ।

भाषा

दिग्विजय के समय में विक्रमाङ्कदेव के लगातार चलाए हुए बाणों से केरलदेश की रानियों के गालों पर पड़े हुए पहिले आसुओं को विक्रमाङ्क देव ने दिखाया । अर्थात् विक्रमाङ्कदेव के वैभव को देखकर, पूर्वं वृत्तान्त का स्मरण होकर वे रानियां आँसू गिराने लगीं और अत्यन्त दुःखित हुई।

तं विभाव्य रभसादुपागतं क्ष्माभुजङ्गमुपजातसाध्वसा ।
लोलवारिनिधिनीलकुण्डला द्राविडक्षितिपभूरकम्पत}} ॥२८॥