पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः असौ अविरतं व्यापृतैः शिलीमुखैः पूर्वकल्पितं केरलक्षितिपवाम चक्षुषां गण्डपालिषु अश्रुणः निवासम् अदर्शयत् । व्याख्या असौ विक्रमाङ्कदेवोऽविरतं निरन्तरं ‘सततेऽनारता श्रान्तसन्तताविरता निशम्' इत्यमरः । . व्यापृतैस्संचालितैः शिली शल्यं मुखे येषां ते शिलीमुखा बाणास्तैः पूर्व दिग्विजयकाल एव कल्पितं विहितं केरलदेशस्य ट्रावंकोरप्रान्तस्य क्षितिपो नृपस्तस्य वामचक्षुषां वामलोचनानां ‘कामिनी वामलोचना' इत्यमरः । गण्डपालिषु कपोलस्थलेषु अश्रुणो बाष्पस्य निवासं स्थितिमदर्शयत्प्रकटयाञ्चकार । विक्रमाङ्कदेववैभवं दृष्ट्वा स्मृतपूर्ववृत्तान्ताः केरलदेशमहिष्यः बाष्पाम्बूनि मुञ्चन्त्यो भूशामदूयन्तेति भावः । अत्र भूतार्थस्य प्रत्यक्षायमाणत्वोक्त्या भाविक नामालङ्कारः । “अदभतस्य पदार्थस्य भतस्याथ भविष्यतः । यत्प्रत्यक्षाय माणत्वं तद्भाविकमुदाहृतम्' इति लक्षणात् । भाषा देग्विजय के समय में विक्रमाङ्कदेव के लगातार चलाए हुए । बाणों से केरलदेश की रानियों के गालों पर पड़े हुए पहिले आसुओं को विक्रमाङ्क देव ने दिखाया । अर्थात् विक्रमाङ्कदेव के वैभव को देखकर, पूर्वं वृत्तान्त का स्मरण होकर वे रानियां आँसू गिराने लगीं और अत्यन्त दुःखित हुई। तं रभसादुपागतं चक्ष्माभुजङ्गमुपजातसाध्वसा । विभाव्यू लोलवारिनिधिनीलकुण्डला द्राविडक्षितिपभूरकम्पत ॥२८॥