पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्य जयकेशी नाम कोङ्कणदेशाधिपो गुर्जरदेशाधिपस्य जयसिंहसिद्धराजस्य मातामह एनं विक्रमाङ्कदेवमेत्य प्राप्य प्रार्थितादभिकाङक्षितादधिकं महत्तरं धनं वित्तमर्पयन्वितरन् सन् कोङ्कणदेशस्य प्रणयिन्यो ललनास्तासां मुखेन्दवो वदन चन्द्रास्तेषु हास एव चन्द्रिका कौमुदी ‘चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । तां हास्यकौमुदीं निश्चलां स्थिरामकृत कृतवान् । धनप्रदानेनाऽऽक्रमणाभावात् कोङ्कणदेशीया नार्यश्चिराय सुप्रसन्नाः कृता इति भावः । अत्र रूपकालङ्कारः । भाषा (गुर्जर देश के राजा जयसिंह सिद्धराज के मातामह), कोंकण देश के राजा जयकेशी ने विक्रमाङ्कदेव के सन्मुख उपस्थित होकर, मांगे हुए से अधिक धन देकर, कोंकण देश की नारियों के मुख रूपी चन्द्रमा की हास्य रूपी चांदनी को अचल कर दिया । अर्थात् वहाँ की स्त्रियाँ युद्ध न होने से चिरकाल के लिये प्रसन्न हो गई। श्रालुपेन्द्रमवदातविक्रमस्त्यक्तचापलमसावधेयत् । दीपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥२६॥ अन्वयः अवदातविक्रमः असौ त्यक्तचापलम् आलुपेन्द्रम् अवर्धयत् । अविन याग्रदूतिका अप्रणतिः एव तादृशाम् कोपं दीपयति । अवदातो धवलो लोकोत्तरत्वेन विख्यात इत्यर्थः । विक्रमः पराक्रमो यस्य स. असाधारणपराक्रमोऽसौ विक्रमाङ्कदेवस्त्यक्तं दूरीकृतं चापलमौद्धत्यं येन तमविन यासम्यक्तं विनीतमित्यर्थः । अालपस्य देशविशेषस्येन्द्र राजानमालपदेशाधिपति