पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास किया । उचचाल पुरतः शनैरसौ लीलया मलयदेशभूभुजाम् । पूर्वदर्शितपराक्रमस्मृतिं सैन्यतूर्यनिनदैः प्रबोधयन् ॥२४॥ इति पञ्चभिः श्लोकैः कुलकम् । अन्वयः असौ सैन्यतूर्यनिनदैः मलयदेशभूभुजां प्रबोधयन् लीलया शनैः पुरतः उचचाल । व्याख्या भाषा असौ विक्रमाङ्कदेवः सैन्यानां सैनिकानां तूर्धाणि वाद्ययन्त्रविशेषास्तेषां निवैश्शब्दैः मलयदेशस्य मलयप्रान्तस्य भूभुजां राज्ञां पूर्व दिग्विजयसमये दशितस्य प्रकटीकृतस्य पराक्रमस्य शौर्यस्य स्मृति स्मरणं प्रबोधयञ्जागरयन् लीलया विलासेन शनैर्मन्दं मन्वं पुरतोऽग्रे उच्चचाल प्रस्थितोऽभूत् । पूर्वदर्शितपराक्रमस्मृतिं मलयप्रान्त के राजाओं को सेना की तुरही के शव्दों से दिग्विजय के समय दिखाए हुए अपने शौर्य का स्मरण कराते हुए, विक्रमाङ्कदेव ने आराम से धीरे २ आगे प्रस्थान किया । एनमेत्य 'जयकेशिपार्थिवः प्रार्थितादधिकमर्पयन्धनम् । निश्चलामकृत हासचन्द्रिकां कोङ्कणप्रणयिनीमुखेन्दुपु ।॥२५॥