पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्मर्दिता उत्पादिता इत्यर्थः । तस्य वनमण्डलस्य कुहरं मध्य गत वा वारवीचय जलतरङ्गा यैस्ते मरुतो वायवः स्मरस्य कामस्याऽस्त्रतां बाणत्वं कामोद्दीपनाय बाणस्यप्रहरणत्वमित्यर्थः । यान्ति व्रजन्ति । पक्वकदलीसुगन्धयुक्ता नारिकेल जनितशीकरशीतला वायवः कामोद्दीपका भवन्तीति भावः । तत्र कदलीफलानां नारिकेलफलानाञ्चाऽऽधिक्यं व्यज्यते । जिस वनवास मण्डल में पके हुए केलों के समूहों को झकझोरने वाले और नारियल के फल समूहों के लगातार गिराने से, नारियलों के भीतर डूबकर फिर ऊपर निकल आने से और छींटे उड़ाने से उस वनवास मण्डल के जल पूरित गड़हों में जल की तरङ्गों को उत्पन्न करने वाले वायु कामदेव के अस्त्र का काम करते थे अर्थात् कामोद्दीपक होते थे । अर्थात् जहाँ केले और नारियल के बहुत पेड़ थे, ऐसे बनवासमण्डल में पके हुए केलों की सुगन्ध से युक्त और गडहों में नारियलों के गिरने से उड़े हुए जल कणों से ठण्डे वायु कामोद्दीपक होते थे । अभ्युवास वनवासमण्डलं तद्दिनानि कतिचिन्नृपात्मजः । योषितामुपवनस्थलीभुवः कर्तुमद्भतविलाससाक्षिणीः ॥२३॥ अन्वयः नृपात्मजः उपवनस्थलीभुवः योषिताम् अदुतविलाससाक्षिणीः कर्तु कतिचित् दिनानि तत् वनवासमण्डलम् अध्युवास । व्याख्या नृपस्य राज्ञ आहवल्लदेवस्याऽऽत्मजः पुत्रो विक्रमाङ्कदेव उपवनस्योद्यानस्य स्थलीभुवोऽकृत्रिमभूमयस्ता उपवनस्थलीभुवो योषितां ललनानामदूतविलासाना माश्चर्यकारिविभ्रमाणां साक्षिण्योऽवलोकयित्र्यस्ताः कर्त विधातं कतिचित्तू