पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सति वाजिनां निस्सरणमार्गाभावात् तेऽश्वाश्चिरं स्नान्नावसरमवापुरिति भावः । लब्धानि प्राप्तानि तीरे नदीतटे तरूणां वृक्षाणां कण्टकानि यैस्तैः क्रमेलकैरुष्टैः पुनस्तटिनी नदीक्षिताऽपि न दृष्टाऽपि न । उष्ट्राणां कण्टकप्रि यत्वादत्र स्नानार्थ तैध्यनमपि न दत्तमिति भावः । भाषा हाथियों के समूह से बाहर निकलने का रास्ता रुक जाने से घोड़ों ने चिरकाल तक नदी में स्नान किया । नदी के तट पर के वृक्षों के काँटे मिल जाने से ऊँटो ने नदी की ओर आँख उठा कर भी न ताका । अर्थात् सुन्दर जलाशय मिलने पर भी स्नान करने की अभिरुचि उनमें उत्पन्न न हुई । अस्मरदुद्विरददानवारिणा तस्य ' वारिनिधिराविलीकृतः । हन्त संततमदस्य विभ्रमानभ्रमुप्रियतमस्य दन्तिनः ॥१६॥ अन्वयः तस्य द्विरददानवारिणा आविलीकृतः वारिनिधिः संततमद्स्य अभ्रमु प्रियतमस्य दन्तिनः विभ्रमान् हन्त ! अस्मरत् । व्याख्या तस्य विक्रमाङ्कदेवस्य द्वौ रवौ दन्तौ येषां ते द्विरदा गजाः' दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । तेषां दानवारि मदजलं ‘गण्डः कटो मदो दानम्' इत्यमरः । तेन गजमदजलेनाऽऽविलीकृतः कलुषीकृतो वारिनिधिः समुद्रः