पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः मतङ्गजः पार्श्वसंगतकरेणुलोभतः प्रतिगजम् अत्यजत् । यत्र तत्र मनोभुवः भुजदण्डचण्डिमा अप्रतिहतः (इति) चित्रम्। व्याख्या मतङ्गजो नागः ‘मतङ्गजो गजो नागः' इत्यमरः । पाश्र्वे समीपे संगता मिलिता करेणुर्हस्तिनी ‘करेणुरिभ्यां स्त्री नेभे' इत्यमरः । तस्या लोभतः प्रलोभात् प्रतिगजं प्रतिमल्लनागमत्यजत् विजहौ । यत्र तत्र सर्वत्र मनसा भवतीति मनोभूः कामस्तस्य मनोभुवः कामस्य भुजदण्डस्य दोर्दण्डस्य चण्डिमा शौर्यमप्रतिहतो निर्बाधगतिरिति चित्रमाश्चर्यकरम् । कामशरताडितस्सर्व परित्यज्य तद्वशे भवतीति भावः । भाषा हाथी ने पास ही में विद्यमान एक हथिनी के लोभ से विपक्षी हस्ती को छोड़ दिया । क्या आश्चर्य की बात है कि कामदेव के भुजदण्ड के पराक्रम में रोक टोक करने वाला कोई नहीं है । अर्थात् सभी जीव कामदेव के वशीभूत हैं । रुद्धवत्र्मसु गजेषु वाजिनः प्रापुरम्भसि निमञ्जनं चिरात् । लब्धतीरतरुकण्टकैः पुनर्नेक्षितापि तटिनी क्रमेलकैः ॥१५॥ अन्वयः गजेषु रुद्ववर्त्र्मसु (सत्सु) वाजिनः अम्भसि चिरात् निमञ्जनं प्रापुः। लब्धतीरतरुकण्टकैः क्रमेलकैः पुनः तटिनी ईक्षिता अपि न ।