सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वभावे सद्वृत्ते' इत्यमरः । तद्गजो मदान्धत्वात्प्रतिमल्लगजेन साकं युद्धर सानुभवेच्छया तदानन्दलोभपरवशस्सन् पिपासाशान्त्यै निर्मलं पेयमपि नदीजलं न पपाविति भावः । अत्राऽर्थान्तरन्यासोऽलङ्कारः ।

भाषा

 विरोधी हाथी को देखकर उसको धर दवाने के रस या जल की उत्कट इच्छा रखने वाले बिक्रमाङ्कदेव के हाथी ने तुङ्गभद्रा नदी के निर्मल जल का पान नहीं किया । क्रोधियों का स्वभाव ही ऐसा होता है ।

षट्पदध्वनिभिराकुलीकृतः पातुमैच्छदुदकं न कुञ्जरः
तान्प्रविश्य पयसि न्यपीडयदूषणं हि मुखरत्वमर्थिनाम् ॥१३॥

अन्वयः

 कुञ्जरः षट्पद्ध्वनिभिः श्राकुलीकृतः (सन्) उदक पातुं न ऐच्छत् । (किन्तु) पयसि प्रविश्य तान् न्यपीडयत् । हि प्रार्थिनां मुखरत्वं दूषणम् ।

व्याध्या

 कुञ्जरो गजः षट्पदानां भ्रमराणां ‘षट्पदभ्रमरालयः' इत्यमरः । ध्वनिभिः शब्दैराकुलीकृत उद्विग्नस्सन् उदकं जलं पातुं पानं कर्तु नैच्छत् न चकमे । किन्तु पयसि जले प्रविश्य तन्मध्ये गत्वा तान् भ्रमरान् त्यपीडयद् बाधितवान् । हि यतोऽथिनां याचकानां मुखरत्वं वाचालत्वं दूषणं दोषः । अत्राऽर्थान्तरन्यासालन्कारः ।

भाषा