पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सा वाहिनी तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन अगमत् । दन्तिदान जलनिम्नगाः आपगापतेः प्रणय पुनः लेभिरे । व्याख्या सा प्रसिद्धा वाहिनी तुङ्गभद्रानदी ‘वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी' इत्यमरः । तस्य विक्रमाङ्कदेवस्य करीन्द्रा गजेन्द्रास्तेषांनिवहाः समूहा स्तेषामवगाहनानि स्नानानि तैस्तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन विपरीत मार्गेणाऽगमत् प्रवहति स्म । दन्तिनां करिणां दानजलस्य मदजलस्य निम्नगा नद्य आपगानां नदीनां ‘स्रवन्ती निम्नगापगा' इत्यमरः । पतिस्समुद्रस्तस्य प्रणयं स्नेहं संगममित्यर्थः । पुनर्लभिरे प्रापुश्च । तुङ्गभद्रायाः प्रतिकूलगमनेन मदजलनदीनाञ्च समुद्रसंगमेन गजेन्द्राणामत्याधिक्यं सूचितम् । अत्र लिङ्गसाम्या न्नायक-नायिकाव्यवहारप्रतीतेः समासोक्तिरलङ्कारः । तुङ्गभद्रायां रुष्टनायिका व्यवहारश्च प्रतीयते । भाषा बह तुङ्गभद्रा नदी विक्रमाङ्कदेव के असंख्य बड़े २ हाथियों के एक साथ उसमें उतर कर स्नान करने से उलटी बहने लगी और हाथियों के मदजल की नदियाँ समद्र में जा मिली । वारणः प्रतिगजं विलोकयंस्तद्विमर्दरसमांसलस्पृहः । आददे न विशदं नदीजलं शीलमीदृशममर्षशालिनाम् ॥१२॥ अन्वयः प्रतिगज विलोकयन् तद्विमर्दरसमांसलस्पृहः वारणः विशदं नदीजलं न श्राददे । अमर्षशालिनाम् ईशं शीलम् ।