पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या शतपत्रे कमले इव लोचने नेत्रे यस्य सः कमलनेत्रस्स विक्रमादित्यः श्रियो “राजलक्ष्म्याः शोभाया वा विलासभुवि क्रीडास्थाने बाहुभुज एव पञ्जरस्तस्मिन् भुजपञ्जरे राजहंसमिव मरालमिव शुभ्र यशः कीर्ति लालयन् सुखपूर्वकं पालयन् सन् तत्र तत्र सर्वत्र स्थाने चित्रमाश्चर्ययुक्तमभ्युदयं समुन्नतिमाससाद प्राप्तवान् । भाषा कमल के समान नेत्र वाले उस विक्रमाङ्कदेव ने राजलक्ष्मी या शोभा की बिलास भूमि अपनी भुजा रूपी पिंजड़े में हंस के समान श्वेत यश को प्रेमपूर्वक पालन करते हुए सर्वत्र आश्चर्य जनक अभ्युदय प्राप्त किया । अर्थात् अपने भुजबल से शत्रुओं को परास्त कर यश फैलाते हुए सर्वत्र आश्चर्य जनक अभ्युदय किया । मन्युपङ्ककलुषं समुद्वहन् भ्रातृदुश्चरितचिन्तनान्मनः । सुप्रसन्नपयसा प्रसन्नतां द्रागनीयत स तुङ्गभद्रया ॥१०॥ अन्वयः भ्रातृदुश्चरितचिन्तनात् मन्युपङ्ककलुषं मनः समुद्वहन् सः सुप्रसन्नपयसा तुङ्गभद्रया द्राक् प्रसन्नताम् अनीयत् । व्याख्या भ्रातुस्सोमदेवस्य दुश्चरितं कुचरित्रं तस्य चिन्तनात् स्मरणात् मन्युः क्रोध एव दैन्यमेव वा ‘मन्युर्दैन्ये क्रतौ कुधि' इत्यमरः । पङ्कः कर्दमस्तेन कलुषं मलिनं मनो हृदयं समुद्वहन् धारयन् स विक्रमाङ्कदेवः सुप्रसन्न निर्मलं पयो जलं यस्या स्तया तुङ्गभद्रया नद्या द्राग् झटिति प्रसन्नतां निर्मलत्वमनीयत प्राप्तः । तुङ्ग