पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किं बहुप्रलपितैः पुनः पुनः प्रत्यनीकपृतनाः समागताः। कालवक्त्रकुहरे निवेश्य स स्वाङ्गशेषमकरोन्महीपतिम् ॥८॥ अन्वयः पुनः पुनः बहुप्रलपितैः किम् । सः समागताः प्रत्यनीकपृतनाः काल वक्त्रकुहरे निवेश्य महीपतिं स्वाङ्गशेषम् अकरोत् । व्याष्ट्र पुनः पुनः भूयो बहुप्रलपितैर्बहुभाषितैः किं न किमपि प्रयोजनम् । स बिक्रभाङ्कदेवः समागताः सराङ्गणं प्रत्यागता: प्रत्यनीकस्य विपक्षस्य शत्रोरि त्यर्थः । पृतनास्सेनाः (कर्म) ‘अस्त्रियां समरानीकरणाः कलहविग्रहौ' इत्यमरः । ध्वजिनी वाहिनी सेना पृतनाऽनीकिनीचमूः' इत्यमरः । कालस्य यमस्य वक्त्रं मुखमेव कुहरं बिलं ‘अथ कुहरं सुषिरं विवरं बिलम्' इत्यमरः । तस्मिन्निवेश्य प्रवेश्य महीपतिं पृथ्वीपतिं सोमदेवं स्वस्याऽङ्ग शरीरमेव शेषमवशिष्टांशो यस्य तं स्वशरीरमात्रावशेषं निस्सहायमित्यर्थः । अकरोत् कृतवान् । भाषा बार २ बहुत कहने से क्या लाभ । उसने आई हुई विपक्षी पलटनों को यमराज के मख रूपी बिल में डालकर राजा सोमदेव को केवल शरीर मात्र शेष बना दिया । अर्थात् उसकी सब सेना नष्ट कर डाली । राजहंसमिव बाहुपञ्जरे श्रीविलासभुवि लालयन्यशः । तत्र तत्र शतपत्रलोचनश्चित्रमभ्युद्यमाससाद