पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनयपङ्कशङ्कितः सः प्राप्तम् अपि तदूलं सहसा न जधान । अप्र तक्यंभुजवीर्यशालिनः तथाविधाः सङ्कटे अपि अगहनाः (भवन्ति) । व्याख्या अनय एवाऽनीतिरेव पङ्कः कर्दमस्तस्माच्छङ्कितः शङ्कायुक्तस्स विक्रमाङ्क देवः प्राप्तं पश्चादागतमपि तस्य सोमदेवस्य बलं सैन्यं तद्वलं ‘अनीकिनी बलं सैन्यं चक्र चानीकमस्त्रियाम्' इत्यमरः । सहसा झटिति न जघान न संहृतवान् । अप्रतक्र्थमचिन्त्यं भुजयोदष्णोवर्य पराक्रमस्तेन शालन्ते शोभन्त इत्यप्रतक्र्यभुजवी र्यशालिनोऽचिन्त्यभुजशक्तिशोभितास्तथाविधा विक्रमाङ्कदेवसदृशाः सङ्कऽटेप्या त्तावप्यगहना निराकुला भवन्ति । अत्राप्यर्थान्तरन्यासोऽलङ्कारः । अनीति रूपी कीचड़ से शङ्कित विक्रमाङ्कदेव ने सेना के पास में आ जाने पर भी उसका संहार नहीं किया। क्योंकि कल्पनातीत भुजबल से शोभित विक्रमाङ्कदेव जैसे लोग आपत्ति आजाने पर भी घवड़ाते नहीं । श्रन्तकः प्रतिभटक्ष्माभृतां निर्दयग्रहणनोद्यतं ततः । तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥७॥ ततः प्रतिभटक्ष्माभृताम् अन्तकः सः निर्दयग्रहणनोद्यतं सैन्यं तन्मद द्विरदपादचूर्णितं (सत्) एककवलं चकार ।