पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के हाथी का स्मरण करने लगा। उच्चैःश्रवा नामक इन्द्र के घोड़े के समान ऐरावत हाथी भी पहिले समुद्र में ही था । बाद में समुद्र मन्थन से उत्पन्न इन दोनों को इन्द्र ने अपना वाहन बनाया । स्नानसक्तपरिवारसुन्दरी-वृन्दमध्यमवधीरिताङ्कशः । यञ्जगाम मदलङ्कितः करी भाग्यसम्पदुपरि स्थितस्य सा ॥१७॥ अन्वयः मद्लङ्गितः अवधीरिताङ्कशः करी स्नानसक्तपरिवारसुन्दरीवृन्दमध्यं यत् जगाम सा उपार स्थितस्य भाग्यसम्पत् । व्याख्या मदेन लङ्गितोऽतिक्रान्तमयदिो मदोन्मत्त इत्यर्थः । अवधीरित उपेक्षितोऽ ङ्कशः सृणिर्येन स उपेक्षिताङ्कशानियन्त्रणः गजः स्नानेऽवगाहने सक्ताः संलग्नाः परिवारसुन्दर्योऽन्तःपुराङ्गनास्तासां वृन्दं समूहस्तस्य मध्यं स्नानलग्नान्तः पुराङ्गनासमूहमध्यं यज्जगाम प्रविष्टवान् इति यत्; अत्र यच्छब्देन पादत्रयो क्तार्थस्य संग्रहः । सा उपरि गजोपरि स्थितस्य विद्यमानस्य हस्तिपकस्येत्यर्थः । भाग्यसंपत् भाग्यसम्पत्तिरासीत् । नारीसमूहमध्यं गजे प्रविष्टे सति तासां भयजन्यविविधवस्त्रस्खलनादिविलासदर्शनस्य सौभाग्यात् हस्तिपकस्य कृते सा घटना भाग्यसंपदेवेति भावः । भाषा मदोन्मत्त हाथी का, अंकुश की कुछ भी परवाह न कर स्नान करने में व्यस्त अन्तः पुर की सुन्दरियों के समूह के बीच में अचानक चला जाना, पीलवान के