पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्यन्त दुःख की बात है कि मैने पास ही में विद्यमान निःशङ्क विक्रभाङ्कदेव को क्यों नहीं गिरफ्तार कर लिया-इस विचार से पलङ्ग पर बेचैनी से करवटे बदलते २ शरीर में लगा हुआ चन्दन मिटाते हुए सोमदेव रात्रियों में पश्चात्ताप तस्य मग्रमवनीपतेर्मनस्वासपङ्कपटले पटीयसि । भूरिसंख्यभरकर्षणक्षमैरप्यकृष्यत न मत्तदन्तिभिः ॥४॥ अन्वयः अवनीपतेः तस्य पटीयसि त्रासपङ्कपटले मग्रं मनः भूरिसंख्यभर कर्षणक्षमैः मतदन्तिभिः अपि न प्रकृष्यत । व्याख्या अवन्या भमेः पतिस्वामी तस्याऽवनीपतेः पथ्वीपतेस्तस्य सोमदेवस्याऽतिशयेन पटुरिति पटीयान् तस्मिन् पटीयस्यतिघने त्रासो भयमेव ‘दरस्त्रासो भीतिभः साध्वसं भयम्' इत्यमरः । पङ्कः कर्दमस्तस्य पटलं समूहः तस्मिन् भीतिरूप कर्दमसमूहे मग्नं निपतितं मनश्चित्तं चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः इत्यमरः । भूरीणि भूयांसि पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च' इत्यमरः । संख्यानि युद्धानि ‘मृधमास्कन्दनं संख्यं समीकं साम्परायिकम्' इत्यमरः तेषां । भरोो भारस्तस्य कर्षणे वहने क्षमाः समर्थास्तैर्बहुयुद्धकरणक्षमैर्मत्ता मदान्धाश्च ते दन्तिनो गजाश्च ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः ।