सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विलक्ष्यचेतसा भूभुजा सर्वतः तूर्यमङ्गलनिनादशान्तितः गुप्तभूषणारवा इव श्रीः तस्य पृष्ठचलिता इव अलक्ष्यत । व्याख्या विगतं विनष्टं लक्ष्यं ज्ञानविषयो यस्मात्तद्विलक्ष्यं ज्ञानविषयरहितं चेतच्चित् यस्य स तेनाऽज्ञानिना भुवं पृथ्वीं भुनक्ति स्वोपभोगे समानयतीति भूभुक् तेन भूमीश्वरेण सोमदेवेन सर्वतस्सर्वासु दिक्षु तूर्यस्य भेय मङ्गलनिनादः मङ्गलध्टक् निस्तस्य शान्त्यास्तूर्यमङ्गलध्वनिसमाप्ति ‘पञ्चम्यास्तसिल ’ इति तसिल प्रत्ययः । गुप्तः प्रच्छन्नो भूषणानामलङ्काराणां रवस्वनो यस्याः सा भूषण शब्दरहितेव श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य पृष्ठे पृष्ठतश्चलितेव चलन्ती वाऽलक्ष्यत दृष्टा । गते विक्रमाङ्कदेवे राज्यलक्ष्मीमपि तत्पश्चाद्गतामिवाऽ नमाति स्मेति भावः । अत्र माङ्गलिकतूर्यध्वन्यभावाद्भभूषणशाब्दान्यत्वस्य पश्चाच्चलनस्य चात्प्रक्षणादुत्प्रक्षालङ्कारः । भाषा विक्रमाङ्कदेव के प्रस्थान समय चारो और कहीं भी तुरही का मङ्गलनाद न होने से अज्ञानी राजा सोमदेव ने, राज्य लक्ष्मी मानों अपने आभूषणों के झझंकारों को दवाकर उसके पीछे चली जा रही है, ऐसा अनुभव किया । अङ्कवर्तिनमशङ्कमाः कथं नाहमेनमुपरुद्धवानिति । तल्पनिलुठनशीर्णचन्दनः पर्यतप्यत विभावरीषु सः ।।३।। अन्वयः आः । अङ्कवर्तिनम् अशङ्कम् एनम् अहं कथं न उपरुद्धवान् इति विभावरीषु तल्पनिलुठनशीर्णचन्दनः सः पर्यंतष्यत ।