पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् पन्चम: सर्ग: नैष दुर्मतिरिमं सहिष्यते राज्यकण्टकविशोधनोद्यतः । अग्रजादिति विशङ्कय सङ्कटं सिंहदेवमनुजं निनाय सः ॥१॥ अन्वयः सः, राज्यकण्टकविशोधनोद्यतः दुर्मतिः एषः इमं न सहिष्यते इति ऋअग्रजात् सङ्कटं विशङ्कय अनुजं सिंहदेवं निनाय । स विक्रमाङ्कदेवो, राज्यस्य स्वराष्ट्रस्य कण्टकाः शत्रुरूपदायादास्तेषां विशोधनेऽपसारणे मारणे इत्यर्थः । उद्यतस्तत्परो स्वराष्ट्रदायाददूरीकरणे समुद्यतो दुर्मतिदुर्बुद्धिरेष सोमदेव इमं सिंहदेवनामानं कनिष्ठभ्रातरं न सहिष्यते स्वानुकूल्येन न मंस्यते तस्याऽपि विनाशे समुद्यतो भवेदिति भावः । इति हेतोरग्रजात्सोमदेवात्संकटं बाधां विशङ्कय वितक्यऽनुजं कनिष्ठभ्रातरं सिंहदेवं जयसिंहापरनामानं निनायऽऽत्मना सह नीतवान् । अस्मिन् सर्गे रथोद्ध ताच्छन्दः-'रान्नराविह रथोद्धता लगौ' इति लक्षणात् । भाषा निष्कण्टक राज्य करने की इच्छा से, राज्य में बाधक दायादों को दूर कर देने में तत्पर, यह कुबुद्धि सोमदेव, कहीं छोटे भाई सिंहदेव उर्फ जयसिंह का