पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ने विचार किया । त्यागमेव प्रशंसन्ति गुरोरुत्पथगामिनः । तदितः साधयाम्येष दक्षिणाम्बुधिसम्मुखः ॥११७॥ अन्वयः ( यत् सत्पुरुषाः) उत्पथगामिनः गुरोः त्यागम् एव प्रशंसन्ति । तत् एषः (अहम्) दक्षिणाम्बुधिसम्मुखः सन् इतः साधयामि । व्याख्या यद्यस्मात्कारणात् (सत्पुरुषाः) उत्पथं कुमार्ग गच्छतीत्युत्पथगामी तस्योत्पथ गामिनः कुमार्गस्थितस्य गुरोः पूज्यस्य ज्येष्ठस्य त्यागं सर्वथैवाऽसहयोगमेव प्रशंसन्ति समाद्रियन्ते । तत्तस्मात्कारणादेषोऽहं विक्रमाङ्कदेवो दक्षिणाम्बुधेर्द क्षिणसमुद्रस्य सम्मुख उन्मुक्खस्सन्नितोस्मान्स्थानात् साअधयामि गच्छमि| भाषा बड़ों के कुमार्गगामी होने पर उनका त्याग करना ही सज्जन लोग ठीक समझते हैं । इसलिये मैं यहाँ से दक्षिण समुद्र की ओर चला जाऊँगा । मया निपीड्यमानास्ते निबिडं द्रविडादयः । श्रार्य विपर्यस्तमपि प्रभवन्ति न बाधितुम् ॥११८॥ अन्वयः = =