पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निराकतुं दूरीकतु न शशाक न समथा बभूव । राज्यमव ग्रहा दुष्टग्रहः पिशाचा दिर्वा तेन गृहीतानामाक्रान्तानाभाविष्टानां वा नृपाणां भन्त्री ग्रहपिशाचादिदूरी करणमन्त्रविशोषः को, न कोऽपीत्यर्थः । भेषजमौषधं च किम् न किमपीत्यर्थः । राजमदेनाऽऽविष्टानां नृपाणां कृते न कोऽप्युपाय इति भावः । भाषा कुमार विक्रमाङ्कदेव अपने बड़े भाई के दुराचार को न रोक सका। राज्य रूपी क्रूर ग्रह से या पिशाचादि से गृहीत या आविष्ट राजाओं के लिये न कोई मन्त्र है न दवा है । श्राचन्तयच्च किं कार्यं विपर्यस्तधियामुना । अकीर्तिसंविभागस्य गमिष्याम्यत्र पात्रताम् ॥११६॥ अन्वयः विपर्यस्तधिया अमुना किं कार्यम् अत्र प्रकीर्तिसंविभागस्य पात्रतां गमिष्यामि (इति) च अचिन्तयत् । ठयाख्या विपर्यस्ता विपरीता धीबुद्धिर्यस्य तेन विपर्यस्तधिया ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । विपरीतबुद्धियुक्तेनाऽमुना सोमदेवेन किं कार्य मम किं प्रयोजनम् न किमपीत्यर्थः । अत्राऽस्मिन् स्थानेऽकीर्तेर्दूर्यशासः संविभागस्यांऽ शस्य पात्रतां भाजनत्वं गमिष्यामि प्राप्स्यामि इति चाऽचिन्तयद्विचारितवान् । सोमदेवेन पापरतेन सहाऽत्रस्थितौ तेन सहाऽहमपि दुर्यशासोंऽशस्याऽऽश्रयो भविष्यामीति च विचारयामासेति भावः ।