पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रयोग्यतां साधयितुं तस्य सेनातुरङ्गमाः ॥१०३॥ अन्वयः तस्य अयोग्यतां साधयितुं मण्डलभ्रमणोद्यताः सेनातुरङ्गमाः फालैः दिव्यम् इव अगृण्हन् । व्याख्या तस्य सोमदेबस्याऽयोग्यतां राजपदानर्हत्वं साधयितुं प्रमाणीकर्तु मण्डलेन मण्डलाकरेण भ्रमणं- परिभ्रमणं तस्मिन्नुधतास्तत्परा मण्डले शुचिदेशे यद्भ्रमणं गमनं तत्रोद्यता लग्ना वा सेनाया वाहिन्यास्तुरङ्गमा अश्वाः फालैः स्फालैरूव्ध्वमुत्प्लुत्य गमनैर्दिव्यं शपथमिबाऽगृण्हन् । यथा केचन मनुष्याः कमपि विषयं प्रमाणीकर्तु पवित्रमण्डले गत्वोत्थाय शपथग्रहणं कुर्वन्ति । तथैव तैरश्वैर्मण्डलाकारभ्रमणव्याजेन पवित्रमण्डलमाश्रित्योत्फालैश्चोध्र्वमुत्थाय सोमदेवस्याऽयोग्यतां साधयितुं शपथग्रहणभिव कृतम् । अथवा यथा केचि न्मनुष्याः प्रायश्चित्तग्रहणाय पवित्रमण्डलाख्यस्थानेषु धावित्वा उत्फालं कुर्वन्त स्तेन च स्वस्य निष्पापतां प्रमाणयन्ति, तथैव सण्डलाकार-क्रीडा-भ्रमणव्याजेन, उत्फालैश्चाश्वाः सोमदेवसंपर्कजन्यपापादात्मानं पापरहितं साधयितुं दिव्यमिवाऽ कुर्वन्निति भावः । भाषा उस सोमदेव की अयोग्यता सिद्ध करने के लिये उसकी सेना के घोड़े मण्डलाकार (गोल) घूमते हुए या प्रायश्चित्त भूमि में धूमते हुए अपनी उछलने की क्रीडा से या प्रायश्चित्त के लिये लम्बी छलांग मारने से मानो दिव्य का