पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या अपास्तः परित्यक्तो निरस्तो वा कुन्तलानां कर्णाटदेशानां केशानां वोल्लास स्समुन्नति: प्रसाधनं वा यया सा वैराग्यं विरक्त्ततां दधती धारयन्ती धरा पृथ्वी तस्मिन् सोमदेवे धवे पस्यौ जीवत्येव विद्यमानेऽपि विगतो मृतो धवः पतिर्यस्याः सा विधवा सेव मृतपतिकानायिकेव व्यराजत विभाति स्म । कर्णाटदेशरूप केशानामप्रसाधनादर्थात् कर्णाटदेशस्याऽवनतेः पृथ्वी सत्यपि कर्णाटदेशाधिपे सोमदेवे विधवेव स्थितेति भावः । विधवैध केशप्रसाधनं न करोतीति दिक् । भाषा अपने कर्णाट देश रूपी केशों का श्रृङ्गार न करने वाली अर्थात् सोमदेव के पापाचरण से कर्णाटदेश की अवनती होने से, विरक्त पृथ्वी सोमदेवरूपी पति के जीवित रहने पर भी विधवा स्त्री के समान दिखाई देती थी । क्योंकि भारत वर्ष में पहिले काल में सधवा स्त्रियाँ ही केशों का शृङ्गार करती थीं। चक्रुः स्तम्बेरमाः पृष्ठे तदारोहणदूषिते । अभ्युक्षणमिवोदस्त-हस्तशीकरवारिभिः ॥१०२॥ अन्वयः स्तम्बेरमाः तदारोहणदूषिते पृष्ठे उद्स्तहस्तशीकरवारिभिः अभ्युक्षणम् इव चक्रुः । व्याख्या स्तम्बेरमा इभाः ‘इभः स्तम्बेरमः पव्मी यूथनाथस्तु यूथपः' इत्यमरः । तस्य पापस्य सोमदेवस्याऽरोहणेन तत्रस्थितिं गतेन दूषिते कलुषिते पृष्ठे, उदस्तान्यूध्वं ो