पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुर्वन्नङ्गेषु वैल्कव्यमाविष्कृतमदज्वरः ।

          स निनाय श्रियं राजा राजयध्मेव संक्षयम् ॥१००॥
                    अन्वयः
 श्राविष्कृतमद्ज्वरः सः राजा राजयक्ष्मा इव श्रङ्गेषु वैक्लव्यं कुर्वन् श्रियं

संक्षयं निनाय ।

                    व्याख्या
 आविष्कृतः प्रकटीकृतो मदः ज्वर इव मदज्वरो येन स राजा नृपस्सोमदेवो

राजयक्षमेव क्षयरोग इवाऽङ्गेष्वयवेषु विक्लवः स्वाङ्गान्येव धारयितुमशक्तो विह्वलस्तस्य भावो वैक्लव्यं विह्वलत्वं कुर्वन् राजपक्षेऽमात्याद्यङ्गेषु वैक्लव्यं सम्यक् प्रबन्धराहित्यं दौर्मनस्यमित्यर्थः कुर्वन् सम्पादयन् श्रियं राजलक्ष्मीं, राजयक्ष्मापक्षे शोभां संक्षयं विनाशं निनाय नयति स्म । यथा क्षयरोगः पूर्व ज्वरं समुत्पाद्य रोगिणोऽवयवेषु विकलतां जनयित्वा तस्य शरीरशोभां नाशयति तथैव मदाप्लुतः सोमदेवोऽमात्यादिराज्याङ्गेषु वैमनस्यरूपं । वैक्लव्यं जनयित्वा राजलक्ष्मीं नाशयति स्मेति भावः । अत्रोपमालङ्कारः ।

                     भाषा
 अभिमान के समान ज्वर को प्रकट करने वाले क्षयरोग के समान सोमदेव

राजा ने (राजयक्ष्मा के पक्ष में) शारीरिक अवयवों में विकलता उत्पन्न कर (राजा के पक्ष में) अमात्य आदि राज्य के अङ्गों में वैमनस्य उत्पन्न कर, शोभा को (पक्ष में) राजलक्ष्मी को नष्ट कर दिया । अर्थात् जिस प्रकार क्षय रोग पहिले ज्वर प्रकट कर शरीर के अङ्ग प्रत्यङ्ग को विह्वल कर शरीर की शोभा को नष्ट कर देता है उसी प्रकार राजा ने मद प्रकट कर मन्त्री आदि राज्य के