पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या

 तस्य सोमदेवस्य नरेन्द्रश्री राजलक्ष्मीर्मदिरेव मद्यमिव मदकारणमविवेक-

हेतुरभूत् । यद्यस्मात्कारणात् सः सोमदेवः परिभ्रष्टं गलितमशेषमखिलं यशः कीर्तिरेवांशुकं वस्त्रं न विवेद न ज्ञातवान् । यथा कश्चिन्मदोन्मत्तो मदान्धत्वात् स्वशरीरात् गलितं वस्त्रं न जानाति तथैवाऽयं सोमदेवोऽविवेकित्वादखिलं यशो विनष्टमिति न जानाति स्मेति भावः ।

                       भाषा
 सोमदेव की राजश्री ही मदिरा के समान उसे मदोन्मत्त बनाने में कारण

हुई । इसीसे उसने पूर्णतया नष्ट होते हुए यश रूपी वस्त्र को नहीं जाना । अर्थात् जिस प्रकार किसी शराबी का शरीर पर का पूरा कपड़ा गिर जाता है तो भी उसे वह नशे में नहीं जान पाता । उसी प्रकार राजलक्ष्मी के मद में चूर अविवेकी सोमदेव को सम्पूर्ण कीर्ति नष्ट हो जाने का पता ही नहीं चला ।

          बाधिर्यमिव मङ्गल्य-तूर्यध्वनिभिरागतः ।
          ईषदप्येष नाश्रौषीद् वचनानि महात्मनाम् ॥६६॥
                      अन्वयः
 एषः मङ्गल्यतूर्यध्वनिभिः बाधिर्यम् श्रागतः इव महात्मनां वचनानि

ईषद् श्रपि न श्रश्रौषीत् ।

                     व्याख्या

एष सोमदेवो मङ्गल्यं माङ्गलिकं तूर्य वाद्यविशेषः तस्य ध्वनिभिर्नादैर्बाधिर्य बधिरतामागतः प्राप्त इव महात्मनां कुलवृद्धानां महानुभावानां वचनानि