पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स विक्रमाङ्कदेवो दिग्वलयं दिङमण्डलमालोड्य प्रमथ्योपार्जितं संगृहीतं वस्तु- जातं सकलं वस्तु तस्मै सोमदेवाय समर्पयामास ददौ । यशस्विनां कीर्तिमतां लोभस्सम्पत्तिलोभो नास्ति न भवति । अत्राऽर्थान्तरन्यासालङ्कारः ।

                        भाषा
   विक्रमाङ्कदेव ने दिग्विजय कर लाई हुई सब चीजें अपने बड़े भाई सोमदेव

को दे दीं । यशस्वी लोगों में लोभ नहीं होता ।

          जातः पापरतः कैश्चिद्दिनैः सोमेश्वरस्ततः ।
          एषा भगवती केन भज्यते भवितव्यता ॥६७॥
                      अन्वयः
   ततः कैश्चित् दिनैः सोमेश्वरः पापरतः जातः । एषा भगवती 

भवितव्यता केन भज्यते ।

                      व्याख्या
   ततो विक्रमाङ्कदेवदत्तविभूतिग्रहणानन्तरं कैश्चिद्दिनैः कियद्भिर्दिवसैः कस्मि-

श्चित्काले गते सतीत्यर्थः । सोमेश्वरः सोमदेवः पापे पापयुक्तकर्मणि रत आसक्ती जातो बभूव । एषा प्रसिद्धा भगवती देवी भवितव्यता नियतिः केन पुरुषेण भज्यते विनाश्यते दूरीक्रियत इत्यर्थः ।

                      भाषा
  इसके बाद कुछ समय बीतने पर सोमदेव पाप करने में प्रवृत्त हो गया ।

भगवती भवितव्यता को कौन टाल सकता है ।