स विक्रमाङ्कदेवो दिग्वलयं दिङमण्डलमालोड्य प्रमथ्योपार्जितं संगृहीतं वस्तु- जातं सकलं वस्तु तस्मै सोमदेवाय समर्पयामास ददौ । यशस्विनां कीर्तिमतां लोभस्सम्पत्तिलोभो नास्ति न भवति । अत्राऽर्थान्तरन्यासालङ्कारः ।
भाषा
विक्रमाङ्कदेव ने दिग्विजय कर लाई हुई सब चीजें अपने बड़े भाई सोमदेव को दे दीं । यशस्वी लोगों में लोभ नहीं होता ।
|
जातः पापरतः कैश्चिद्दिनैः सोमेश्वरस्ततः । |
अन्वयः
ततः कैश्चित् दिनैः सोमेश्वरः पापरतः जातः । एषा भगवती भवितव्यता केन भज्यते ।
व्याख्या
ततो विक्रमाङ्कदेवदत्तविभूतिग्रहणानन्तरं कैश्चिद्दिनैः कियद्भिर्दिवसैः कस्मि- श्चित्काले गते सतीत्यर्थः । सोमेश्वरः सोमदेवः पापे पापयुक्तकर्मणि रत आसक्ती जातो बभूव । एषा प्रसिद्धा भगवती देवी भवितव्यता नियतिः केन पुरुषेण भज्यते विनाश्यते दूरीक्रियत इत्यर्थः ।
भाषा
इसके बाद कुछ समय बीतने पर सोमदेव पाप करने में प्रवृत्त हो गया । भगवती भवितव्यता को कौन टाल सकता है ।