पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यमरः । बाह्या बहिर्भूतास्ताभिनिष्कपटाभिरन्योन्यस्य परस्परस्य स्नेहवृत्तिभिः प्रेमार्द्रव्यवहारैः केऽपि कियन्तोऽपि वासरा दिवसा अत्यवाह्यन्त यापिताः ।

                      भाषा
  धीरे धीरे दुःख से मुक्त दोनों भाइयों ने परस्पर कपट रहित, प्रेम भरे

व्यवहारों में कुछ दिन बिताये । ज्येष्ठं गुणैर्गरिष्ठोऽपि पितुस्तुल्यममंस्त सः । महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ||६५ ||

                      अन्वयः

सः गुणैः गरिष्ठः अपि ज्येष्टं पितुः तुल्यम् श्रमंस्त । महात्मनाम् श्रमार्गेण प्रवृत्तयः न भवन्ति ।

                     व्याख्या
  स विक्रमाङ्कदेवो गुणैश्शौर्यदयादाक्षिण्यादिनृपोचितगुणैर्गरिष्ठोऽपि गुरुतमोऽपि

श्रेष्ठोऽपीतिभावः । ज्येष्ठमग्रजं सोमदेवं पितुराहवमल्लदेवस्य तुल्यं सन्मानेन समानममंस्त विज्ञातवान् । यतो महात्मनां मनस्विनां महानुभावानाममार्गेणाऽ नुचिताध्वना प्रवृत्तयोऽध्यबसाया न भवन्ति । ‘ज्येष्ठोभ्राता पितुः समः’ इति- स्मरणात् । अत्राऽर्थान्तरन्यासालङ्कारः ।

                      भाषा
  शौर्यादिगुणों में श्रेष्ठ होने पर भी विक्रमाङ्कदेव अपने बड़े भाई सोमदेव

को पिता आहवमल्लदेव के समान ही आदरपूर्वक मानता था । बडे़ लोगों के