विवेश प्रविष्ट: ।
भाषा
कल्याण नगरी में पहुँचने पर बड़े भाई सोमदेव से अगवानी द्वारा सम्मानित विक्रमाङ्कदेव, उसी के साथ राजमन्दिर में दुःख से गया ।
|
श्रन्योन्यकएठाश्लेषेण पीडितस्येव निर्ययुः । |
अन्वयः
तत्र तयोः श्रन्योन्यकएठाश्लेषेण पीडितस्येव इव बाष्पाम्भसः श्रति- मांसलाः धाराः चिरं निर्ययुः ।
व्याख्या
तत्र राजमन्दिरे तयोस्सोमदेवविक्रमाङ्कदेवयोरन्योन्यस्य परस्परस्य कण्ठा- श्लेषेण कण्ठपरिरम्भणेन पीडितस्येव निष्ठ्यूतस्येव बाष्पमेवाम्भो बाष्पाम्भोऽ- श्रुजलं तस्याऽतिमांसला अतिबलवत्य अतिविशाला इत्यर्थः । ‘बलवान्मां- सलोंऽसलः' इत्यमरः । धाराः प्रवाहाश्चिरं बहुकालपर्यन्तं निर्ययुनिस्सृताः । तौ चिरकालपर्यन्तमश्रूणि मुञ्चन्तौ रुरुदतुरिति भावः । अत्रोत्प्रेक्षालङ्कारः ।}}
भाषा
राजमन्दिर में एक दूसरे को कस कर गले लगाने से मानों दबने से आसुओं की विशाल धाराएँ चिरकाल तक निकलती रहीं ।
|
|