पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवेश प्रविष्ट: ।

                         भाषा
   कल्याण नगरी में पहुँचने पर बड़े भाई सोमदेव से अगवानी द्वारा सम्मानित

विक्रमाङ्कदेव, उसी के साथ राजमन्दिर में दुःख से गया ।

             श्रन्योन्यकएठाश्लेषेण पीडितस्येव निर्ययुः ।
             बाष्पाम्भसस्तयोर्धाराश्चिरं तत्रातिमांसलाः ॥६३॥
                        अन्वयः 
  तत्र तयोः श्रन्योन्यकएठाश्लेषेण पीडितस्येव इव बाष्पाम्भसः श्रति-

मांसलाः धाराः चिरं निर्ययुः ।

                        व्याख्या
  तत्र राजमन्दिरे तयोस्सोमदेवविक्रमाङ्कदेवयोरन्योन्यस्य परस्परस्य कण्ठा-

श्लेषेण कण्ठपरिरम्भणेन पीडितस्येव निष्ठ्यूतस्येव बाष्पमेवाम्भो बाष्पाम्भोऽ- श्रुजलं तस्याऽतिमांसला अतिबलवत्य अतिविशाला इत्यर्थः । ‘बलवान्मां- सलोंऽसलः' इत्यमरः । धाराः प्रवाहाश्चिरं बहुकालपर्यन्तं निर्ययुनिस्सृताः । तौ चिरकालपर्यन्तमश्रूणि मुञ्चन्तौ रुरुदतुरिति भावः । अत्रोत्प्रेक्षालङ्कारः ।

                        भाषा
  राजमन्दिर में एक दूसरे को कस कर गले लगाने से मानों दबने से आसुओं

की विशाल धाराएँ चिरकाल तक निकलती रहीं ।

            क्रमात्ताभ्यामदुःखाभ्यामन्योन्यस्नेहवृत्तिभिः ।
            केऽपि कैतवबाह्याभिरत्यवाह्यन्त वासराः ॥६४॥