पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाहिनी' इत्यमरः । तासां गाहने विलोडने क्षमस्समर्थस्तथाविधस्तादृश: सत्त्वस्य बलस्य सत्त्वगुणस्य वा पक्षे सत्त्वानि जलजन्तवस्तेषां राशिः ‘सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावान्यभावे बले प्राणेषु जन्तुषु' इति हेमचन्द्रः । निधिरभ्भोधिरिव समुद्र इव दुष्प्रापो दुर्लभः । तीव्रवेगेन सम्मुखं समागच्छन्तीनां नदीनां गाहने समर्थः, जलजन्तूनां निधिस्समुद्र इव तीव्रवेगेन सम्मुखं समागच्छन्तीनां सेनानां विलोडने समर्थः बलवान् सत्त्वगुणयुक्तो राजाऽऽहवमल्लदेवसदृशो नरो दुर्लभ इति भावः । अत्र श्लिष्टोपमालङ्कारः । भाषा वेग से सम्मुख आने वाली नदियों को अपने में मिला लेने में समर्थ, जलजन्तुओं के निधि समुद्र के समान, वेग से सम्मुख आने वाली सेनाओं को मथ डालने में समर्थ, सत्वगुण या बल का निधि राजा आहवमल्लदेव के ऐसा पुरुष दुर्लभ है । आर्येणा सौकुमार्येक-भाजनेन हहा कथम्। अयं विषादवज्रागिनिरसह्यत मया विना ॥८६॥ अन्वयः सौकुमार्येकभाजनेन आयेणा अयं विषादवज्रान्निः मया विना कथम् असह्यत, हहा । व्याख्या सौकुमार्य कोमलता मार्दवं वा तस्यैकं भाजनं पात्रं तेन सौकुमार्येकभाजनेन स्नेहाद्रपरममृदुस्वभावेनाऽर्येण पूज्येन ज्येष्ठम्रात्रा सोमदेवेनाऽयमनुभूयमानो विषाद एव पितृमरणशोक एव वज्राग्निः कुलिशवदविषह्यदुःखदहनो मया विना