प्रिय हूँ । अतः मेरी अनुपस्थिति में उसने इस दु:ख को कैसे सहन किया होगा ।
साक्रन्दमिति चान्यच स संचिन्त्य पुनः पुनः ।
शनैर्विवेकदीपेन पन्थानं प्रत्यपद्यत ॥८७॥
अन्वयः
सः इति अन्यत् च पुनः पुनः साक्रन्दं संचिन्त्य विवेकदीपेन शनैः पन्थानम् प्रत्यपद्यत् ।
व्याख्या
स विक्रमाङ्कदेव इति च पूर्वोक्तं विषयञ्चाऽन्यच्च किञ्चिन्मनोगतञ्च पुनः पुनर्भूयोभूयस्साक्रन्दं सविलापं यथास्यात्तथा संचिन्त्य विचार्य विवेक एव सदस द्विचार एव दीपः प्रकाशकारकस्तेन सदसद्विचारप्रकाशेन शनैः क्रमशः पन्थानं मार्ग स्वस्थतां प्रत्यपद्यत प्राप्तवान् । विवेकप्रकाशेन शोकतमो निरस्य शनैः यथाकथञ्चित् स्वस्थो बभूवेति भावः ।
भाषा
वह विक्रमाङ्कदेव पूर्वोक्त तथा अन्य भी कुछ मानसिक बातों का रोते हुए बार बार विचार कर धीरे धीरे विवेक रूपी दीप के प्रकाश से (शोक रूपी अन्धकार को दूर कर) रास्ते पर आया । अर्थात् कुछ स्वस्थ हुआ ।
यथाविधि विधायाथ संस्थितस्य पितुः क्रियाम् ।
अग्रजालोकनोत्कण्ठा-प्ररितः सोऽचलत्पुरः ॥८८॥