पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधास्यति कथं धाता सर्गरत्नं तथाविधम् । कथं वा संघटिष्यन्ते तादृशाः परमानावः ॥८४॥ अन्वयः धाता तथाविधं सर्गरत्नं कथं विधास्यति । तादृशाः परमानावः कथं चा संघटिष्यन्ते । व्याख्या धाता ब्रह्मा तथाविधं तादृशमाहवमल्लदेवसदृशां सर्गस्य सृष्टे रत्नं बहुमूल्य मणिरूपमुत्कृष्टा सृष्टिरित्यर्थः । कथं विधास्यति केन रूपेण करिष्यति । तादृशास्तथाविधा आहवमल्लदेवस्य समवायिकारणभूताः परवाणवः कारणभूत द्रव्याणि कथं वा संघटिप्यन्ते केन प्रकारेण वा मिलिस्त्यनति । आहवमल्लदेव समवायिकारणीभूतावयवद्रव्याणां दुर्लभत्वात्तादृशी सृष्टिरपि न सम्भाव्यत इति महदद्रु: खकारणमिति भावः । भाषा ब्रह्मा वैसे सृष्टि के रत्न को अर्थात् सवाच्च रचना को कैसे बना सकेगा ? और उस प्रकार के परमाणु जिनसे आहवमल्लदेव राजा की सृष्टि हुई थी कैसे मिलेंगे । अर्थात् वैसे परमाणुओं के न मिलने से आहवमल्लदेव सदृश दूसरे मनुष्य की सृष्टि हो ही नहीं सकेगी यह एक बड़े दुःख की बात है । प्रधावत्सम्मुखानेक-वाहिनीगाहनक्षमः । अम्भोधिरिव दुष्प्रापः सत्वराशिस्तथाविधः ॥८५॥ अन्वयः गहनक्षमः तथाविधः सत्वराशिः अभ्भोधि