पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरे वह शौर्य ! अरे वह धैर्य ! अरे वे मर्यादा के कार्य ! यह सत्य है कि ये सब गुण एकही मनुष्य में फिर से नहीं मिल सकते जो आहवमल्ल देव में थे ।

कुण्ठी कृतारिशस्त्रस्य तस्य वज्रोपमाकृतेः । भाग्यानामेव मे दोषा-देष जातः परिक्षयः ॥८३॥

अन्वयः मे भाग्यानाम् एव दोषात् कुण्ठीकृतारिशखस्य ब्रज्रोपमाकृतेः तस्य एषः परिक्षयः जातः ।

व्याख्या मे मम भाग्यानामेवदुर्भाग्यानामेवदोषादपराधात् कुण्ठीकृतानि व्यर्थीकृतान्य रीणां शत्रूणां शस्त्राणि प्रहरणानि येन स तस्य व्यर्थीकृतशत्रुप्रहरणस्य वज्रस्य कुलिशस्य ‘ ह्रादिनीवज्त्रमस्त्रीस्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शंबो दम्भोलिरशानिर्द्वयो:' इत्यमरः । उपमा सादृश्यं यस्यां सा वज्रोपमाऽतिकठि नाऽऽकृतिर्देहो यस्य स तस्य वज्रोपमाकृतेर्वज्रवदतिकठोरशरीरस्य तस्याऽऽहवम ल्लदेवस्य एष उपस्थितः परिक्षयो विनाशो जातः ।

भाषा मेरे ही दुर्भाग्य से शत्रुओं के शस्त्रों को कुण्ठित कर देने वाले और वज्र के समान अति कठोर शरीर वाले मेरे पिता आहवमल्लदेव राजा की मृत्यु हुई है|

पाठान्तरम् । तदेव पूर्वोक्तश्लोकार्ध प्रकारान्तरेण. वर्णयति कविः ।