पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः

हे पौरुष ! तद्वाहुदण्डविश्लेषे किं करिष्यसि । हे प्रताप ! प्रतिपालकवैधुर्यात् परितप्यसे ।

व्याख्या

हे पौरुष ! हे पुरुषार्थ ! “पुंभावे तत्क्रियायां च पौरुषम्' इत्यमरः । तस्याऽऽहवमल्लदेवनृपस्य बाहुदण्डो भुजदण्डस्तस्य विरलेषे वियोगे किं करिष्यसि न किमपीत्यर्थः । तद्वाहुदण्डाभावे पुरुषार्थस्य सत्तैव नास्तीति भावः । हे प्रताप ! हे तेजः । ‘स प्रतापः प्रभवस्च यत्तेजः कोषदण्डजम्' इत्यमरः । प्रतिपालकस्य संरक्षकस्याऽऽश्रयदातुरित्यर्थः । राज्ञ आहवमल्लदेवस्य वैधुर्या द्राहित्यात् परितप्यसे दुःखजन्यसंतापं प्राप्तोऽसि । आहवमल्लदेवे नृपे गते सति पौरुषप्रतापयोराश्रयाभावात्परिताप इति भावः । अत्र विनोक्तिनामाऽलङ्कारः ।

भाषा

हे पुरुषार्थ ! आहवल्लदेव राजा के वियोग में अब तू क्या करेगा । हे प्रताप ! आश्रय के अभाव में तू दुःखी हो रहा है। अर्थात् आहवमल्लदेव राजा के न रहने से पौरुष और प्रताप दोनों ही निराधार हो गये ।

पद्मे पद्माकरानेव पुनः सद्मत्वमानय । श्रयं त्वया पतिभ्रंश-संतापोऽन्यत्र दुःसहः ।।७९ ।।

श्रन्वयः हे पद्मे! पुनः पद्माकरान् एव सह्मत्वम् आनय । त्वया अयं पति भ्रंश -संतापः अन्यत्र दुस्सहः ।