पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावः । अत्रोत्तराधेन पूर्वोक्तकमलसमाश्रयसमर्थनादर्थान्तरन्यासः । हे लक्ष्मी ! अब कमलों को ही फिर से अपना निवासस्थान बना । स्वामी के नाश का यह दुःख कमलों के अतिरिक्त अन्य स्थान में रह कर सहन करना अत्यन्त कठिन है । अर्थात् पति विरह जनित सन्ताप को शान्त करने के लिये कमल जनित शैत्य ही लाभदायक हो सकता है । श्लाध्यं शेषफणाचक्र-विटङ्कात्पतनं भुवः । अथवा स्नेहपाण्डित्यं मृत्पिण्डस्येदृशं कुतः ॥८०॥ अन्वयः भुवः शेषफणाचक्रविटङ्कात् पतनं श्लाध्यम् । ईदृशं स्नेहपाण्डित्यं कुतः (सम्भवति) । व्याख्या अथवा मृत्पिण्डस्य भुवः पृथिव्याः पतिविनाशे शेषस्याऽनन्तसर्पराजस्य ‘शेषोऽनन्तो वासुकिस्तु इत्यमरः । फणानां स्फटानां ‘स्फटायां तु फणा द्वयोः' इत्यमरः । चक्र समूह एव विटङ्कमुच्चशिखरं ‘कपोतपालिकायां तु विटङ्क पुंनपुंसकम्' इत्यमरः । तस्मात्पतनं पतनेन मरणं श्लाघ्यं वरम् । अथवा पक्षान्तरे मृत्पिण्डस्य मृत्तिका शरीरस्य ‘पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोल सिह्नकयोरपि' इति मेदिनी । ईदृशं विशिष्टं स्नेहः प्रेम तस्य पाण्डित्यं विचार प्राचुर्य कुतः कस्माद्धेतोः सम्भवति नैव स्यादचेतनत्वादिति भावः ।