सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अधिक होकर उससे पीसे जाने के कष्ट से तुम्हारा मांस सूख कर हड़ियाँ ही अवशिष्ट रह जाएँगी ।

दिग्गजास्त्यजत स्वैर-क्रीडाविहरणादरम् ।

संभूय भूयः सर्वेऽपि धारयन्तु धरामिमाम्'७५

अन्वयः

 हे दिग्गजाः स्वैरक्रीडाविहरणाद्रं त्यजत सर्वे अपि भूयः संभूय इमां धरां धारयन्तु । ।

व्याख्या

 हे दिग्गजाः ! । हे दिक्कुञ्जराः ! स्वैरं स्वच्छन्दं यथास्यात्तथा यत्क्रीडासु विहरणं विहारार्थ संचलनं तस्मिन्नादरं स्नेहं त्यजत मुञ्चत । सर्वेऽपि भवन्त स्सकला भूयः पुनरपि राज्ञ उत्पत्तिकालात्प्रागिव संभूय मिलित्वेमां धरां पृथ्वीं धारयन्तु वहन्तु । इदानीं युष्माकं पृथ्वीभारवहनकर्मणि सहायको राजाऽऽहव मल्लदेवो भुवं परित्यज्य परलोक गत इति भावः ।

भाषा

 हे दिग्गजों ! राजा आहवमल्लदेव के रहने से पृथ्वी स्थिर थी इसलिये तुम लागा आनन्द से स्वच्छन्द क्रीड़ा में घूमते थे । किन्तु अब राजा आहब मल्लदेब पृथ्वी छोड़ कर परलोक को सिधार गये हैं, इसलिये अपना स्वच्छन्द क्रीड़ा प्रेम छोड़ो और सब मिलकर इस पृथ्वी की सह्माँलो ।

 बाहुराहवमळूस्य सुवर्णस्तम्भविभ्रमः ।