पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या अथ पितृमरणदुर्घटनाश्रवणानन्तरमविश्रान्तं निरन्तरं बाष्यसंतानस्याऽ श्रुधाराया दुर्दिनं वृष्टिर्यस्मिन्सः, असौ विक्रमाङ्कदेवः कियतीरपि काश्चिदपि कालकलाः समयकलाश्चिरकालपर्यन्तं तथा तेनैव प्रकारेण स्थित्वोपविश्याऽ चिन्तयत चिन्तयामास । भाषा बाद में लगातार आँसुओं की झड़ी बरसाने वाले विक्रमाङ्कदेव ने चिरकाल तक उसी दशा में रहने के बाद विचार किया । तवादिकूर्म कर्माणि निषेधन्ति सुखस्थितिम् । प्रयाहि शेष निष्पेषादस्थिपञ्जरशेषताम् ॥७४॥ अन्वयः हे आदिकूर्म कर्माणि तव सुखस्थितिं निषेधन्ति । हे शेष निष्पेषात् अस्थिपञ्जरशेषतां प्रयाहि । व्याख्या हे आदिकूर्म ! हे कच्छपावतार ! कर्माणि भाग्यानि तव सुखस्थिति सुखेन स्थितिमाहवमल्लकर्तृकभूभारहरणस्य निरन्तरं जायमानत्वादल्पभू भारधारणेन भुवस्तले सुखपूर्वकवासं निषेधन्ति न मन्यन्ते । हे शेष । नागराज ! निष्पेशाद्राज्ञोऽभावाद्भूभारस्याऽऽधिक्यात्तस्य धारणेन तवाऽङ्गाना मत्यन्तसम्मर्दनादस्थिपञ्जरः शेषोऽवशिष्टांशो यस्य स तस्य भावोऽस्थिपञ्जर शेषता तामधिकभारवहनजन्यदुःखातिशयान्मांसक्षयेणाऽस्थिमात्रावशिष्टस्वरूपं प्रयाहि प्राप्नुहि ।