पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजकुमार विक्रमाङ्कदेव के वैसे रोने से यमराज के पिता सूर्य भी, उसके पिता के सदृश धर्मात्माओं को जान से मार डालने का दुराचार का काम करने के नियमी, अपने पुत्र यमराज को सूर्यवंश का कलङ्क समझने लगे । भाषा एतद्दुःखानभिज्ञेभ्यो दिनेभ्यः स्पृहयन्मुहुः । दिवसोऽपि यथात्मानं मन्दभाग्यममन्यत ।॥७२॥ यथा एतद्दुःखानभिज्ञेभ्यः दिनेभ्यः मुहुः स्पृहयन् दिवसः अपि आत्मानं मन्दभाग्यम् अमन्यत । अन्वयः ८८ यथेति पदं पूर्वोक्तस्य तथा रुरोदेति वाक्यस्य तथा शब्देनाऽन्वेति । स तथा रुरोद यथा येन कारणेनैतद्दुःखान्याऽऽहवमल्लमृत्युजन्यराजकुमारविलापादि दुःखानि तेषामनभिज्ञा अपरिचितास्तेभ्यो दिनेभ्यो दिवसेभ्यो मुहुः पुनःपुनः स्पृहयन्नभिलषन् दिवसोऽपि राजकुमारकृतविलापदिवसोऽप्यात्मानं स्वं मन्दभाग्यं हतभाग्यममन्यत मेने । अन्यदिवसा मत्तो भाग्यवन्तो यैरिदं महद्दुखं नाऽनु भूतमिति चिन्तयति स्मेति भावः । व्याख्या राजकुमार विक्रमाङ्कदेव के वैसे रोने से वह दिन भी, ऐसे क्लेश से अनभिज्ञ अन्य दिवसों के समान ही हम होते तो अच्छा था, ऐसी अभिलाषा करते हुए अपने को हतभाग्य समझने लगा । विशेषकम्' त्रिभिः पछैर्यत्र वाक्यसमाप्तिर्भवति तद्विशेषक