पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति उक्त्वा तत्र विरते (सति) कृतनेत्राम्बुदुर्दिनः पार्श्वस्थैः हृतासिधेनु साक्रन्द्गलकन्दलः सः स्वभावातू प्राभावेन तादृशः पितृस्नेहात् च भूपृष्ठलुठितेन वपुषा तथा रुरोद् । व्याख्या इति पूर्वोक्तमुक्त्वा कथयित्वा तत्र दूते विरते विश्राममुपगतवति सति कृत सम्पादितं नेत्राम्बुभिर्नयननिर्गताश्रुजलैर्दूर्दिनं मेघावृतदिवसो येन सः ‘मेघच्छन्नेऽन्हि दुर्दिनम्' इत्यमरः । अश्रुवृष्टि कुर्वन्नित्यर्थः । पाश्र्वे तिष्ठन्तीती पाश्र्वस्थास्तैः समीपचरैर्जनै हृता गृहीता असिधेनुश्छुरिका यस्य स ‘छुरिका चासिधेनुका' इत्यमरः । आक्रन्देनाऽऽर्तनादेन सहितो गल एव कन्दलो नालो यस्य सः राजकुमारः स्वभावात्प्रकृत्यैवाऽऽद्रभावेन स्निग्धभावेन ‘भावः सत्तास्वभावा भिप्रायचेष्टात्मजन्मसु' इत्यमरः । तादृशस्तथाभूतादनिर्वचनीयात्पितृस्नेहाच्च पितृप्रेम्णश्च भुवः पृष्ठे भूपृष्ठे भूमितले लुठितमितस्ततः परावर्तितं तेन वपुष् शारीरेण ‘गात्रं वपुः संहननं शरीरं वत्र्म विग्रहः' इत्यमरः । तथैवं वक्ष्यमाण प्रकारेण रुरोद रोदनं कृतवान् । भाषा इस प्रकार कह कर दूत के चुप होने पर अपने आँखों के आँसुओं से मेघ के ऐसी वृष्टि करने वाला, पास के लोगों ने कहीं दुःख से वह अपना प्राणान्त न करले इस भय से जिसकी छूरी छीन ली है ऐसा पुक्काफाड़ कर रोने वाला वह राजकुमार, स्वभाव से ही कोमल हृदय होने से तथा वैसे पितृस्नेह से जमीन पर लोट २ कर इस प्रकार विलाप करने लगा । एवंविधदुराचार-गृहीतनियमं यमम् । मन्यते स्म यथा वंशे तिग्मांशुरपि कण्टकम् ॥७१॥