सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलोलतूर्यनिघर्ष-श्चन्द्रचूडामणेः पुरीम् ॥६८॥ अन्वयः अथ सः कण्ठद्ध्ने सरितोये प्रविश्य कल्लोलतूर्यनिघोषैः चन्द्रचूडामणेः पुरीं जगाम । व्याख्या अथाऽनन्तरं स राजा कण्ठदध्ने गलप्रमाणे कण्ठदध्नमित्यत्र कण्ठः प्रमाण मस्येति विग्रहे ‘प्रमाणे द्वयसन्दध्नञ्मात्रचः' इति सूत्रेण दध्नच् प्रत्ययः । सरितस्तुङ्गभद्रानद्यास्तोघे जले प्रविश्य गत्वा कल्लोला उल्लोलाः ‘महत्सूल्लोल कल्लोलौ' इत्यमरः । एव तूर्याणि वाद्यविशेषाः “तुरही' इति भाषायां प्रसिद्धाः । तेषां निघर्षशब्दैस्सह चन्द्र एव हिमांशुरेव ‘हिमांशुश्चन्द्रमाश्चन्द्र इन्डुः कुमुदबान्धवः' इत्यमरः । चूडामणिशिरोभूषणं यस्य तस्य शिवस्य पुरीं वकैलासं जगाम प्राप्तवान् ।

अनन्तर तुङ्ग भद्रा नदी में गले तक पानी में खड़े होकर लहरों के ऊंचे २ शब्द रूपी तुरही की ध्वनि के साथ वह राजा शंकर की कैलास नगरी में चला गया । पद्ययुग्मेन राजकुमारावस्थां वर्णयति कविः इत्युक्त्वा विरते तत्र कृतनेत्राम्बुदुर्दिनः । हृतासिधेनुः पार्श्वस्थैः साक्रन्दगलकन्दलः ॥६९॥