पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत् एषः अहं तुङ्गभद्रायाः उत्सङ्गं शिवचिन्तया देहग्रहविडम्बनां निराकर्तुं वाञ्छमि । तत्तस्मात्कारणात् शिवसायुज्यप्रप्तिहेतोः एषोऽहं तुङ्गभद्रायास्तुङ्गभद्रा नाम्न्या नद्या उत्सङ्गऽदी तटे इस्यर्थः । शिवचिन्तया शिवध्यानेन देहस्य शरीरस्य ग्रहो ग्रहणं धारणमित्यर्थः । तस्य विडम्बनामुपद्रवं जन्मग्रहणदुःखं निराकर्तुमपनेतुं वञ्छामि समभिलषामि । शिवसायुज्येन पुनर्जन्मग्रहणदुःखं मा भवत्वित्याभिलषतीति भावः । भाष शिवसायुज्य मुक्ति प्राप्त होने के लिये मैं तुङ्गभद्रा नदी के तट पर शंकर का ध्यान करते हुए फिर से जन्म लेने के दुःख को सदा के लिये दूर कर देने की कामना रखता हूँ । यातोऽयमुपकाराय कायः श्रीकण्ठसेवया । कृतघ्नव्रतमेतस्य यत्र तत्र विसर्जनम् ॥६०॥ अन्वयः अयं कायः श्रीकण्ठसेवया उपकाराय यातः । एतस्य यत्र तत्र विसर्जनं कृतघ्नव्रतम् । व्याख्या अयं कायो देहः श्रीकण्ठस्य शिवस्य सेवया परिचर्ययोपकाराय स्वाभीष्ट- सिद्ध्यर्थं यातो गतः । एतस्य वपुषो यत्र तत्र तीर्थादन्यत्र विसर्जनं त्यागः कृतं | वनन्तीति कृतघ्नाः परोपकारविस्मरणशीलास्तेषां व्रतमनष्ठानं कार्यमित्यर्थः ।