सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तेनैव युवराजत्वं समारोप्य यशस्विना।
एष साम्राज्यभारस्य वोढा सोमेश्वरः कृतः ॥५४॥

अन्वयः

 यशस्विना तेन एव एषः सोमेश्वरः युबराजयं समारोप्य साम्राज्य भारस्य घोढा कृतः ।

व्यख्या

 यशः कीतिविद्यते यस्य स यशस्वी तेन यशस्विन कीfतमता तेन विक्रमा के देवेन एषोऽयं सोमेश्वरो मम ज्येष्ठपुत्रः सोमदेवो युवराजत्वं युवराजपदं समारोप्य प्रतिष्ठाप्य साम्राज्यस्य भरस्तस्य सकल राज्यकार्यभारस्य वोढा धारयित। कृतः ।

भाषा

 उस यशस्वी बिक्रमादित्य ने ही मेरे ज्येष्ठ पुत्र सोमदेव को युवराज पद पर बैठाकर सम्पूर्ण राज्य कार्यों का भार उसको सौंप दिया ।

इति मे कृतकृत्यस्य माहेश्वरशिरोमणेः ।
गिरिजानाथनगरे समारोहणमुत्सचः ॥५५

अन्वय

 इति कृतकृत्यस्य माहेश्वरशिरोमणेः मे गिरिजानाथनगरे समारोहणम् उरसचः (अस्ति ) ।