पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमुद्राभिरनन्तभिवभूतिभिः ऐश्वर्योपायैर्भूमिरदरिद्रकृत समृद्ध कृत । साधूनां सज्जनानां वेश्मसु गृहेषु ‘गृहं गेहोदवसितं वेइम सम निकेतनम्' इत्यमरः । श्रियो लक्ष्म्यः कुलवधूभिः प्रशस्तकुलोत्पन्नरमणीभिस्साम्यं समानतां नीतः प्रापिताः। यथा कुलवधूः स्थायित्वं निश्चलत्वं च भजते तथैव सतां गेहेषु लक्ष्म्याः स्थायित्वं निश्चलत्वञ्च प्रतिपादितमिति भावः । भाषा मैंने दान देकर अपरिमित सम्पत्ति के साधनों से पृथ्वी की कमी दूर कर दी । सज्जनों के घर में मैंने लक्ष्मी को कुलवधू के समान स्थायी और निश्चल कर दिया । प्राप्तः कोदण्डपाडित्य-जातलक्ष्मीसमागमः । काकुत्स्थनिविडस्थामा वनुविंक्रमलाञ्छनः ॥५३॥ अन्वयः कोदण्डपाण्डित्यजातिलक्ष्मीसमागमः काकुत्स्थनिबिडस्थामा विक्रम लाच्छनः सूनुः (मया) प्राप्तः । व्यख्या कोदण्डे धनुषि लक्षणया तद्विद्यायां ‘धनुश्चपौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । पाण्डित्येन प्रावीण्येन जातः प्राप्तो लक्ष्म्या सह समागमो मेलनं यस्य सः , काकुत्स्थस्येव रामचन्द्रस्येच निबिडं घनमधिकमित्यर्थः । स्थम पराक्रमो यस्य सः, ‘द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च । शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता' इत्यमरः । विक्रमः पराक्रमो लाच्छनं