सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दर्शयन्दशनज्योत्स्ना-मथोवाच स मन्त्रिणः ॥४९॥

अन्वयः

  अथ सः मन्त्रिणः अन्तर्दाहम् श्रलोक्य विनिर्गतां प्रियां कीर्ति इव दशनज्योत्स्नां दर्शयन् उवाच ।

व्याख्या

 अथाऽनन्तरं स राजा मन्त्रिण अामात्यान्प्रति मन्त्रिणामित्यर्थः अन्तर्दाहमन्तःसन्तापमालोक्य दृष्ट्वा विनिर्गतां बहिर्निःसृतां प्रियां हृद्यां कीर्तिमिव यश इव शुक्लत्वाद्दशनज्योत्स्नां दन्तचन्द्रिकां 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः ।

भाषा

 इसके बाद वह राजा मन्त्रियों को घबड़ाया हुआ देख कर, बाहर निकलने वाली अपनी (सफ़ेद) प्रिय कीर्ति के समान दन्तकान्ति को फैलाते हुए कहने लगा ।

क्षिप्ता मुकुटमाणिक्य-पट्टिकासु महीभुजाम् ।
टङ्कनेव प्रतापेन निजाज्ञाक्षरमालिका ॥५०॥

अन्वयः

 महींभुजां मुकुटमाणिक्यपट्टिकासुप्रतापेन टङ्केन इव निजाज्ञाक्षरमालिका क्षिप्ता ।

व्याख्या